|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.26. अध्यायः 026
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
गरुढेन गजकच्छपावासमेत्य चरणाभ्यां तयोर्ग्रहणम्॥ 1 ॥ तथा तयोर्भक्षणाय नैमिषारण्यस्थमहातरुशाखायां वेगान्निपतनम्॥ 2 ॥ तथा स्वनिपतनमात्रेण भज्यमानशाखाया अधोभागे लम्बमानमुनिगणावलोकनात्तुण्डेन तच्छाखाग्रहणपूर्वकं पुनरुत्पतनम्॥ 3 ॥ तथा देवदूतवचनात्समुद्रान्ते शाखाविसर्जनेन तन्निवासिनां कुविन्दानां हननम्॥ 4 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`गरुड उवाच।
कथं तौ भगवञ्शक्यौ मया वारणकच्छपौ॥
युगपद्गृहीतं तं मे त्वमुपायं वक्तुमर्हसि॥ 13-26-1(81913)
कश्यय उवाच। 13-26-2x(6807)
योद्धुकामे गजे तस्मिन्मुहूर्तं स जलेचरः।
उत्तिष्ठति जलात्तूर्णं योद्धुकामः पुनःपुनः॥ 13-26-2(81914)
जलजं निर्गतं तात प्रमत्तं चैव वारणम्।
ग्रहीष्यसि पतङ्गेश नान्यो योगोऽत्र विद्यते॥ 13-26-3(81915)
भीष्म उवाच। 13-26-4x(6808)
इत्येमुक्तो विहगस्तद्गत्वा वनमुत्तमम्।
ददर्श वारणेन्द्रं तं मेघाचलसमप्रभम्॥ 13-26-4(81916)
तां स नागो गिरेर्वीथिं सम्प्राप्त इव भारतः।
स तं दृष्ट्वा महाभागः सम्प्रहृष्टतनूरुहः॥ 13-26-5(81917)
बिभक्षयिषतो राजन्दारुणस्य महात्मनः॥
मातङ्गं कच्छपं चैव प्रहर्षः सुमहानभूत्॥ 13-26-6(81918)
अथ वेगेन महता खेचरः स महाबलः।
सङ्कुच्य सर्वगात्राणि कृच्छ्रेणैवान्वपद्यत॥ 13-26-7(81919)
तथा गत्वा तमध्वानं वारणप्रवरो बली।
निशश्वास महाश्वासः श्रमाद्विश्रमणाय च॥ 13-26-8(81920)
तस्य निश्वासवातेन मदगन्धेन चैव ह।
उदतिष्ठन्महाकूर्मो वारणप्रतिषेधकः॥ 13-26-9(81921)
तयोः सुतुमुलं युद्धं ददर्श पतगेश्वरः।
कच्छपेन्द्रद्विरदयोरिन्द्रप्रह्वादयोरिव॥ 13-26-10(81922)
स्पृशन्तमग्रहस्तेन तोयं वारणयूथपम्।
दन्तैर्नस्तैश्च जलजो वारयामास भारत॥ 13-26-11(81923)
जलजं वारणोऽप्येवं चरणैः पुष्करेण च।
प्रत्यषेधन्निमज्जन्तमुन्मज्जन्तं तथैव च॥ 13-26-12(81924)
मुहूर्तमभवद्युद्धं तयोर्भीमप्रदर्शनम्।
अथ तस्माज्जलाद्राजन्कच्छपः स्थलमास्थितः॥ 13-26-13(81925)
स तु नागः प्रभग्रोऽपि पिपासुर्न न्यवर्तत।
तोयगृध्नुः शनैस्तर्षादपासर्पत पृष्ठतः॥ 13-26-14(81926)
तं दृष्ट्वा जलजस्तूर्णमपसर्पन्तमाहवात्।
अभिदुद्राव वेगेन वज्रयाणिरिवासुरम्॥ 13-26-15(81927)
तं रोषात्स्थलमुत्तीर्णमसम्प्राप्तं गजोत्तमम्।
उभावेव समस्तौ तु जग्राह विनतासुतः॥ 13-26-16(81928)
चरणेन तु सव्येन जग्राह स गजोत्तमम्।
प्रस्पन्दमानं बलवान्दक्षिणेन तु कच्छपम्॥ 13-26-17(81929)
उत्पपात ततस्तूर्णं पन्नगेन्द्रनिषूदतः।
दिवं खं च समुत्पत्य पक्षाभ्यामपराजितः॥ 13-26-18(81930)
तेन चोत्पतता तूर्णं सङ्गृहीतौ नखैर्भृशम्।
वज्रगर्भैः सुनिशितैः प्राणांस्तूर्णं मुमोचतुः॥ 13-26-19(81931)
तौ गृह्य बलवांस्तूर्णं स्रस्तपादशिरोधरौ।
विवल्गन्निव खे क्रीडन्खेचरोऽभिजगाम ह॥ 13-26-20(81932)
अत्तुकामस्ततो वीरः पृथिव्यां पृथिवीपते।
निरैक्षत न चापश्यद्द्रुमं पर्याप्तमासितुम्॥ 13-26-21(81933)
नैमिषं त्वथ सम्प्राप्य देवारण्यं महाद्युतिः।
अपश्यत द्रुमं कञ्चिच्छाखास्कन्धसमावृतम्॥ 13-26-22(81934)
हिमवच्छिखरप्रख्यं योजनद्वयमुच्छ्रितम्।
परिणाहेन राजेन्द्र नल्वमात्रं समन्ततः॥ 13-26-23(81935)
तस्य शाखाऽभवत्काचिदायता पञ्चयोजनम्।
दृढमूला दृढस्कन्धा वज्रपत्रसमाचिता॥ 13-26-24(81936)
तत्रोपविष्टः सहसा वैनतेयो निगृह्य तौ।
अत्तुकामस्ततः शाखा तस्य वेगादवापतत्॥ 13-26-25(81937)
तां पतन्तीमभिप्रेक्ष्य प्रेक्ष्य चर्षिगणानधः।
आसीनान्वसुभिः सार्धं सत्रेण जगतीपते॥ 13-26-26(81938)
वैखानसान्नाम यतीन्वालखिल्यगणानपि।
तत्र भीराविशत्तस्य पतगेन्द्रस्य भारत॥ 13-26-27(81939)
तान्दृष्ट्वा स यतींस्तत्र समासीनान्सुरैः सह।
तुण्डेन गृह्य तां शाखामुत्पपात खगेश्वरः।
तौच पक्षी भुजङ्गाशो व्योम्नि क्रीडन्निवाव्रजत्॥ 13-26-28(81940)
तं दृष्ट्वा गुरुसम्भारं प्रगृह्योत्पतितं खगम्।
ऋषयस्तेऽब्रुवन्सर्वे गरुडोऽयमिति स्म ह।
न त्वन्यः क्षमते कश्चिद्यथाऽयं वीर्यवान्खगः॥ 13-26-29(81941)
असौ यच्छति धर्मात्मा गुरुभारसमन्वितः।
अयं क्रीडन्निवाकाशे तस्माद्गरुड एव सः॥ 13-26-30(81942)
एवं ते समयं सर्वे वसवश्च दिवौकसः।
अकार्षुः पक्षिराजस्य गरुडेत्येव नाम ह॥ 13-26-31(81943)
स पक्षी पृथिवीं सर्वां परिधावंस्ततस्ततः।
मुमुक्षः शाखिनः शाखां न स्म देशमपश्यत॥ 13-26-32(81944)
स वाचमशृणोद्दिव्यामुपर्युपरि जल्पतः।
देवदूतस्य विस्पष्टमाभाष्य गरुडेति च॥ 13-26-33(81945)
वैनतेय कुविन्देषु समुद्रान्ते महाबल।
पात्यतां शाखिनः शाखा न हि ते धर्मनिश्चयाः॥ 13-26-34(81946)
तच्छ्रुत्वा गरुडस्तूर्णं जगाम लवणाम्भसः।
उद्देशं यत्र ते मन्दाः कुविन्दाः पापकर्मिणः॥ 13-26-35(81947)
ततो गत्वा ततः शाखां मुमोच पततांवरः।
तया हता ********* दास्तदा षड्विंशतो नृप॥ 13-26-36(81948)
स देशो राजशार्दूल ख्यातः परमदारुणः।
शाखापतग इत्येव कुविन्दानां महात्मनाम्॥' ॥ 13-26-37(81949)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षड्विंशोऽध्यायः॥ 26 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-26-36 तुण्डेन शाखां गृहीत्वा कश्यपसमीपं गते गरुडे शाखाया अधोभागलम्बिनामृषीणां कस्यपप्रार्थनया शाखाविसर्जनेन हिमवद्गिरिगमनमादिपर्वोक्तमत्रानुसन्धेयम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|